अथ ध्यानं प्रवक्ष्यामि श्रृणुसर्वांगसुन्दरम् । पंचमुखी हनुमान कवच । Panchmukhi Hanuman Kawach

 !! पंचमुखी हनुमान कवच !!

Dwimukhi Hanuman Mahavir Mandir Patna


पंचमुखी हनुमान कवच 
सभी प्रकार के अनिष्ट को दूर करने वाला है, 
इसका नियमित पाठ से सभी प्रकार के रोग और कष्ट दूर होते हैं। 
पंचमुख श्री हनुमान जी का चित्र यदि घर के प्रवेश द्वार पर लगाया जाए, 
तो बड़ा ही मंगलकारी होता है और श्री हनुमान जी की कृपा प्राप्त होती है।  
भक्तजनो आयिये पंचमुखी श्री हनुमान जी के कवच का 
पाठ करते हैं। 


!!गरुड़ उवाच !!


अथ ध्यानं प्रवक्ष्यामि श्रृणुसर्वांगसुन्दरम् !
यत्कृतं देवदेवेन ध्यानं हनुमतः प्रियम्‌ !!१!!


पंचवक्त्रं महाभीमं त्रिपंचनयनैर्युतम्‌ !
बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिद्धिदम्‌ !!२!!


पूर्वंतु वानरं वक्त्रं कोटिसूर्यसमप्रभम्‌ !
दंष्ट्राकरालवदनं भृकुटीकुटिलेक्षणम्‌ !!३!! 


अस्यैव दक्षिणं वक्त्रं नारसिंहं महाद्भुतम्‌ !
अत्युग्रतेजोवपुषं भीषणं भयनाशनम्‌‌ !!४!!


पश्चिमं गारुडं वक्त्रं वक्रतुंडं महाबलम्‌ !!
सर्वनागप्रशमनं विषभूतादिकृन्तनम्‌ !!५!! 


उत्तरं सौकरं वक्त्रं कृष्णं दीप्तं नभोपमम्‌ !
पातालसिंहवेताल ज्वररोगादिकृन्तनम्‌ !!६!! 


ऊर्ध्वं हयाननं घोरं दानवांतकरं परम !
येन वक्त्रेण विप्रेंद्र तारकाख्यं महासुरम्‌ !!७!! 


जघान शरणं तत्स्यात् सर्वशत्रुहरं परम्‌ !
ध्यात्वा पंचमुखं रुद्रं हनुमन्तं दयानिधिम्‌ !!८!! 


खड्गं त्रिशूलं खट्वांगं पाशमंकुशपर्वतम्‌ !
मुष्टिं कौमोदकीं वृक्षं धारयन्तं कमण्डलुम्‌ !!९!! 


भिन्दिपालं ज्ञानमुद्रां दशभिर्मुनिपुंगवम्‌ !
एतान्यायुधजालानि धारयन्तं भजाम्यहम्‌ !!१०!!


 प्रेतासनोपविष्टं तं सर्वाभरणभूषितम्‌ !
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम्‌ !!११!!


सर्वाश्चर्यमयम् देवं हनुमद्विश्वतोमुखम्‌ !
पश्चास्यमच्युतम नेकविचित्रवर्णं
वक्त्रं शशांकशिखरं कपिराजवर्यम !
पीतांबरादिमुकुटैरूपशोभितांगम्
पिंगाक्षमाद्यमनिशं मनसा स्मरामि !!१२!! 


मर्कटेशं महोत्साहं सर्वशत्रुहरं परम्‌ !
शत्रु संहार मां रक्ष श्रीमन्नापदमुद्धर !!१३!! 


ॐ हरिमर्कट मर्कट मन्त्रमिदं परिलिख्यति लिख्यति वामतले !
यदि नश्यति नश्यति शत्रुकुलं यदि मुश्चति मुश्चति वामलता !!१४!! 


इदं कवचं पठित्वा तु महाकवचं पठेन्नरः !
एकवारं जपेत्स्तोत्रं सर्वशत्रुनिवारणम्‌ !!१५!!
द्विवारम् तु पठेन्नित्यं पुत्रपौत्रप्रवर्धनम्‌ !
त्रिवारं च पठेन्नित्यं सर्वसम्पतकरं शुभम्‌ !!१६!! 


चतुर्वारं पठेन्नित्यं सर्वरोगनिवारणम्‌ !
पंचवारं पठेन्नित्यं सर्वलोकवशंकरम्‌ !!१७!!
षड्वारं च पठेन्नित्यं सर्वदेववशंकरम्‌ !
सप्तवारं पठेन्नित्यं सर्वसौभाग्यदायकम्‌ !!१८!!


 अष्टवारं पठेन्नित्यं अष्टकामार्थसिद्धिदम्‌ !
नववारं पठेन्नित्यं राजभोगमवाप्युनात्‌ !!१९!!
दशवारं पठेन्नित्यं त्रैलोक्यज्ञानदर्शनम्‌ !
रुद्रावृत्तिं पठेन्नित्यं सर्वसिद्धिर्भवेद्ध्रुवम्‌ !!२०!! 


कवचस्मतरणेनैव महाबलमवाप्नुयात्‌ !!२१!!
!! इति पंडित शिवदत्त मिश्र शास्त्री विरचिते हनुमत रहस्ये
सुदर्शनसंहितायां श्रीरामचन्द्रसीताप्रोक्तं पंचमुखहनुमत्कवचं संपूर्णम् !!




एक टिप्पणी भेजें

और नया पुराने