॥ श्री काली कर्पूर स्तोत्रम् ॥
कर्पूरं मध्यमान्त्य स्वरपररहितं सेन्दुवामाक्षियुक्तं
बीजं ते मातरेतत्त्रिपुरहरवधु त्रिःकृतं ये जपन्ति ।
तेषां गद्यानि पद्यानि च मुखकुहरादुल्लसन्त्येव वाचः
स्वच्छन्दं ध्वान्तधाराधररुचिरुचिरे सर्वसिद्धिं गतानाम् ॥ १ ॥
ईशानः सेन्दुवामश्रवणपरिगतो बीजमन्यन्महेशि
द्वन्द्वं ते मन्दचेता यदि जपति जनो वारमेकं कदाचित् ।
जित्वा वाचामधीशं धनदमपि चिरं मोहयन्नम्बुजाक्षि
वृन्दं चन्द्रार्धचूडे प्रभवति स महाघोरबाणावतंसे ॥ २ ॥
ईशो वैश्वानरस्थः शशधरविलसद्वामनेत्रेण युक्तो
बीजं ते द्वन्द्वमन्यद्विगलितचिकुरे कालिके ये जपन्ति ।
द्वेष्टारं घ्नन्ति ते च त्रिभुवनमपि ते वश्यभावं नयन्ति
सृक्कद्वन्द्वास्रग्धाराद्वयधरवदने दक्षिणे कालिके च ॥ ३ ॥
ऊर्ध्वे वामे कृपाणं करकमलतले च्छिन्नमुण्डं तथाधः
सव्ये भीतिं वरं च त्रिजगदघहरे दक्षिणे कालिके च ।
जप्त्वैतन्नामवर्णं तव मनुविभवं भावयत्येवमम्ब
तेषामष्टौ करस्थाः प्रकटित वदने सिद्धयस्त्र्यम्बकस्य ॥ ४ ॥
वर्गाद्यं वह्निसंस्थं विधुरतिललितं तत्त्रयं कूर्चयुग्मं
लज्जाद्वन्द्वं च पश्चात् स्मितमुखि तदधष्ठद्वयं योजपित्वा ।
त्वां मातर्ये जपन्ति स्मरहरमहिले भावयन्त स्वरूपं
ते लक्ष्मीलास्यलीलाकमलदलदृशः कामरूपा भवन्ति ॥ ५ ॥
प्रत्येकं वा द्वयं वा त्रयमपि च परं बीजमत्यन्तगुह्यं
त्वन्नाम्ना योजपित्वा सकलमपि सदा भावयन्तो जपन्ति ।
तेषां नेत्रारविन्दे विहरति कमला वक्त्रशुभ्रांशुबिम्बे
वाग्देवी देवि मुण्डस्रगतिपरिलसत्कण्ठ पीनस्तनाढ्ये ॥ ६ ॥
गतासूनां बाहूप्रकरकृतकाञ्चीपरिलस-
-न्नितम्बां दिग्वस्त्रां त्रिभुवनविधात्रीं त्रिनयनाम् ।
श्मशानस्थे तल्पे शवहृदि महाकालसुरतः
प्रसक्तां त्वां ध्यायन् जननि जडचेता अपि कविः ॥ ७ ॥
शिवाभिर्घोराभिः शवनिवहमुण्डाऽस्थि निकरैः
परं सङ्कीर्णायां प्रकटितचितायां हरवधूम् ।
प्रविष्टां सन्तुष्टामुपरिसुरतेनाति युवतीं
सदा त्वां ध्यायन्ति क्वचिदपि न तेषां परिभव ॥ ८ ॥
वदामस्ते किं वा जननि वयमुच्चैर्जडधियो
न धाता नापीशो हरिरपि न ते वेत्ति परमम् ।
तथापि त्वद्भक्तिमुखरयति चास्माकमसिते
तदेतत्क्षन्तव्यं न खलु पशुरोषः समुचितः ॥ ९ ॥
समन्तादापीनस्तनजघनधृग्यौवनवती
रतासक्तो नक्तं यदि जपति भक्तस्तव मनुम् ।
विवासास्त्वां ध्यायन् गलितचिकुरे तस्य वशगः
समस्ताः सिद्ध्यौघाः भुवि तव चिरञ्जीवति कविः ॥ १० ॥ [कलिः]
समाः स्वस्थीभूतां जपति विपरीतेरति विधो [यदि सदा]
विचिन्त्य त्वां ध्यायन्नतिशयमहाकालसुरताम् ।
तदा तस्य क्षोणीतलविरहमाणस्य विदुषः
कराम्भोजे वश्या हरवधू महासिद्धिनिवहाः ॥ ११ ॥
प्रसूते संसारं जननि भवती पालयति च
समस्तं क्षित्यादि प्रलयसमये संहरति च ।
अतस्त्वां धातापि त्रिभुवनपतिः श्रीपतिरथो
महेशोऽपि प्रायः सकलमपि किं स्तौमि भवतीम् ॥ १२ ॥
अनेके सेवन्ते भवदधिकगीर्वाणनिवहान्
विमूढास्ते मातः किमपि न हि जानन्ति परमम् ।
समाराध्यामाद्यां हरिहरविरिञ्च्यादिविबुधैः
प्रसन्नोऽस्मि स्वैरं रतिरसमहानन्दनिरताम् ॥ १३ ॥
धरित्री कीलालं शुचिरपि समीरोपि गगनं
त्वमेका कल्याणी गिरिशरमणी कालि सकलम् ।
स्तुतिः का ते मातस्तवकरुणया मामगतिकं
प्रसन्ना त्वं भूया भवमननुभूयान्मम जनुः ॥ १४ ॥
श्मशानस्थः सुस्थो गलितचिकुरो दिक्पटधरः
सहस्रं त्वर्काणां निजगलितवीर्येण कुसुमम् ।
जपस्त्वत्प्रत्येकं मनुमपि तव ध्याननिरतो
महाकालि स्वैरं स भवति धरित्री परिवृढः ॥ १५ ॥
गृहे सम्मार्जन्या परिगलितवीजं हि कुसुमं
समूलं मध्याह्ने वितरति चितायां कुजदिने ।
समुच्चार्य प्रेम्ना मनुमपि सकृत्कालि सततं
गजारूढो जाति क्षितिपरिवृढः सत्कविवरः ॥ १६ ॥
स्वपुष्पैराकीर्णं कुसुमधनुषो मन्दिरमहो
पुरो ध्यायन् ध्यायन् यदि जपति भक्तस्तव मनुम् ।
सगन्धर्वश्रेणीपतिरपि कवित्वामृतनदी
नदीनः पर्यन्ते परमपदलीनः प्रभवति ॥ १७ ॥
त्रिपञ्चारे पीठे शवशिवहृदि स्मेरवदनां
महाकालेनोच्चैर्मदनवशलावण्यनिरताम् ।
समासक्तो नक्तं स्वयमपि रतानन्दनिरतो
जनो यो ध्यायेत्त्वां जननि किल सस्यात् स्मरहरः ॥ १८ ॥
सलोमास्थि स्वैरं पललमपि मार्जारमसिते
परं चोष्ट्रं मेषं नरमहिषयोश्छागमपि वा ।
बलिं ते पूजायामपि वितरतां मर्त्यवसतां
सतां सिद्धिः सर्वा प्रतिदिनमपूर्वा प्रभवति ॥ १९ ॥
वशीलक्षं मन्त्रं प्रजपति हविष्यासनरतो
दिवा मातर्युष्मच्चरणयुगल ध्याननिरतः ।
परं नक्तं नग्नो निधुवन विनोदेन च मनुं
जपेल्लक्षं सम्यक् स्मरहरसमानः क्षितितले ॥ २० ॥
इदं स्तोत्रं मातस्तव मनुसमुद्धारणजनुः
स्वरूपाख्यं पादाम्बुजयुगलपूजाविधियुतम् ।
निशार्धे वा पूजासमयमथवा यस्तु पठति
प्रलापस्तस्यापि प्रसरति कवित्वामृतरसः ॥ २१ ॥
कुरङ्गाक्षीवृन्दं तमनुसरति प्रेमतरलं
वशस्तस्य क्षोणीपतिरपि कुबेरप्रतिनिधिः ।
रिपुः कारागारं कलयति चलत्केलिकलया
चिरं जीवन्मुक्तः प्रभवति स भक्तः प्रतिजनुः ॥ २२ ॥
इति श्रीमहाकालविरचितं कालिकास्तोत्रं सम्पूर्णम् ।